|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.145. अध्यायः 145
Mahabharata - Vana Parva - Chapter Topics
गन्धमादनं प्रस्थितेषु पाण्डवेषु मध्येमार्गं महावृष्टेः प्रादुर्भावः ॥ 1 ॥ तदा पादपाद्यन्तरितैस्तैर्वृष्ट्युपरमे पुनः प्रस्थानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-145-0x(2250)(21386)
ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः।
बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः ॥ 3-145-1(21387)
परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम्।
पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ 3-145-2(21388)
सरांसि सरितश्चैव पर्वतांश्च वनानि च।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ 3-145-3(21389)
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्।
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः ॥ 3-145-4(21390)
चेरुरुच्चावचाकारान्देशान्विषमसंकटान्।
पश्यन्तो मृगजातानि बहूनि विविधानि च ॥ 3-145-5(21391)
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्।
विविशुस्ते महात्मानः किन्नराचरितं गिरिम् ॥ 3-145-6(21392)
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्।
चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते ॥ 3-145-7(21393)
ततो रेणुः समुद्भूतः सपत्रबहुलो महान्।
पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत् ॥ 3-145-8(21394)
न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना।
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम् ॥ 3-145-9(21395)
न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥ 3-145-10(21396)
द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम्।
अन्येषां च महीजानां शब्दः समभवन्महान् ॥ 3-145-11(21397)
द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम्।
इति ते मेनिरे सर्वेपवनेन विमोहिताः ॥ 3-145-12(21398)
ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥ 3-145-13(21399)
ततः कार्मुकमादाय भीमसेनो महाबलः।
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम् ॥ 3-145-14(21400)
धर्मराजश्च धौम्यश् निलिल्याते महावने।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥ 3-145-15(21401)
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः।
वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे ॥ 3-145-16(21402)
मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति।
महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह ॥ 3-145-17(21403)
भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव।
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः ॥ 3-145-18(21404)
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥ 3-145-19(21405)
तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः।
प्रादुरासन्सकलुषाः फेनवत्यो विशांपते ॥ 3-145-20(21406)
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्।
परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥ 3-145-21(21407)
तस्मिन्नुपरते शब्देबाते च समतां गते।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ 3-145-22(21408)
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत।
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम् ॥ 3-145-23(21409)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-145-13 पथा मार्गेण। अनन्तरान्सन्निहितान्। निलिल्यिरे निलीनाः ॥ 3-145-14 संगम्यादायेत्यन्वयः। गत्वा गृहीत्वेत्यर्थः ॥ 3-145-19 अश्मसहिता_ करकासहिताः ॥ 3-145-21 वारि वहन्त्यो नद्यः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|